Author(s): डा. सुकान्तबेहेरा
Abstract:
न्यायशास्त्रे अनुमाने हेतोः प्रमुखं स्थानं स्वीकृतम् । यथार्थानुमितिजनने साधुहेतूनां यथा महत्त्वं विद्यते, तथैव दुष्टहेतूनां सम्यग्विवेचनमपि अत्यावश्यकम् । हेत्वाभासचर्चया केवलं दोषपरिज्ञानमेव न भवति, अपितु तर्कपद्धतेः सूक्ष्मता, निर्णयशक्तेश्च परिपाकः सुस्पष्टो भवति। अतोऽत्र दीपिकाग्रन्थदृष्ट्या हेत्वाभासलक्षणस्य स्वरूपं, तद्विषयकदोषान्, तेषां प्रतिबन्धकत्वञ्च विवेच्यते । सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः इति सूत्रेण पञ्चानां हेत्वाभासानां स्वरूपनिर्देशः क्रियते। अत्र सव्यभिचारादीनां पृथगुल्लेखो न निरर्थकः, किन्तु सामान्यधर्मप्रकार-कज्ञानपूर्वकविशेषजिज्ञासाजननाय। “अहेतवो हेतुवदाभासन्ते” इति हेत्वाभासशब्दनिर्वचनात् सामान्यलक्षणस्य बोधो भवति। यथा - “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि” इत्यत्र प्रमाणशब्दस्य प्रत्यक्षादिशब्दसन्निधानेन चतुर्णामेव प्रमाणत्वबोधकत्वं दृश्यते, तथैव सव्यभिचारादिपदानामपि हेत्वाभासविभागबोधनं स्वाभाविकम्। “हेतुलक्षणाभावादहेतवो हेतुसामान्याद् हेतुवदाभासमानाः” इति न्यायभाष्यवचनादपि दुष्टहेतूनामेव हेत्वाभासत्वं प्रतिपद्यते। हेतुसादृश्येनात्र हेतुशब्दस्य गौणप्रयोगः। गोवर्द्धनमिश्रैरपि - “हेतुवदाभासन्ते इति हेत्वाभासा दुष्टहेतवः” इति व्याख्यातम् । ‘हेत्वाभास’ इत्यस्य पदार्थे हेतुसामान्यं सादृश्यं वा किंरूपमिति जिज्ञासायां प्रतिज्ञोत्तरभागे यथा साधुहेतुप्रयोगः दृश्यते तथैव दुष्टहेतुप्रयोगोऽपि दृश्यते, अथवा दुष्टहेतौ प्रकृतहेतोः कस्यचिद्धर्मस्य स्थितिरस्तीत्यर्थः। अन्नंभट्टैः - “सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः” इति कथितम्।
PDF URL: View Article in PDF
