Author(s): दुर्योधन रणा
Abstract:
सामाजिकविधिव्यवस्थायाः प्राचीनसाक्ष्यमनुस्मृतिः स्मृतिशास्त्रत्वेन मानवसमाजाय विधिवत्सा-माजिकाङ्गतया जीवनयापनप्राणाल्याः प्रमुखमङ्गत्वेन विद्यते। समाजे विद्यमानानां समेषां जनानामैक्यदयाकरुणादानधर्माद्याचरणं सुतरां युक्तियुक्तत्वमुपयाति। अतोऽस्य समाजस्य सर्वोत्कृष्टोन्नतिसाधननिमित्तं सामाजिकसंरचनायाः मूलस्रोतस्त्वेन मनुस्मृतिः सुतरां लोकोपयोगाय प्रवर्तते। अत्र प्रोक्ताश्रमव्यवस्थायाः योगदानं साम्प्रतिकस्थितावपि बहुधा अनुमीयते। प्राचीनकाले जीवनस्य सुष्ठुक्रियान्वयनार्थं वर्णव्यवस्थाः आश्रमव्यवस्थाः मुनिभिः परिकल्पिताः वर्तन्ते। अतः तत्सर्वं प्रायशो धर्मसूत्रग्रन्थेषु उपनिबद्धाः बभूव। स्मृतिसाहित्ये अस्य विशालसमावेशो मनुस्मृतौ प्राप्यते। मनुस्मृतौ आश्रमव्यवस्थायाः नैकं कर्म कर्त्तव्यबोधञ्च सुष्ठु परिभाषते। अतः अस्य मनुस्मृतेः बहुधा सामाजोपयोगिता कांक्ष्यते। अत्रोक्तनैतिकाध्यात्मिकाधिभौतिकरहस्यानां मञ्जुलसमावेशो धार्मिकविश्वा-सस्य रूपरेखां प्रस्तौति। वेदस्मृतिसदाचारत्वेन त्रिविधनैतिकभावस्योद्रेकं स्मृतिशास्त्रे मनुना बहुधा प्रतिपादितम्। अत्रोक्तसंस्कारक्रियाविध्याश्रमधर्माणामनुसेव्यत्वं बहुधा शास्त्रान्तरेषु महत्त्वं विदधाति।
PDF URL: View Article in PDF
