मनुस्मृतौ वैदिकसंस्कृतेः संरक्षणं लोकोपयोगिता च

Author(s): दुर्योधन रणा

Abstract:

श्रुत्युक्तधर्मो याज्ञिकक्रियाविधिदैवतवादसिद्धान्ताध्यात्मिकाधिभौतिकादितत्त्वैः सदैव प्रवर्तते यश्च वैदिकसंस्कृतेर्विशेष्यत्वं वर्तते तत्सर्वं स्मार्त्तकर्मणि आचारादिमार्गैर्बहुधा विन्यासो दृश्यते, यश्च षड्विधरूपेण तत्र वर्णधर्माश्रमधर्मवर्णाश्रमधर्मगुणधर्मनिमित्तधर्मसाधरणधर्मेति बहुधा प्रतिपत्तिर्घटते। वैदिकसंस्कृतिः यागपरकं यच्च स्मार्त्तक्रियाविधावपि बहुधा लोके साम्प्रतिककर्मणि उपयुज्यते। यश्च क्रियाविधिः याज्ञिककर्मणि ईदानीं दरीदृश्यते तत्सर्वं स्मार्त्तविधावपि प्रतिपत्तिं जनयति। अस्यामपि संस्कृतौ आचारः परमो धर्मो यत्र नैतिकता सदाचारत्वमहिंसाऽऽदिनैतिककर्मणि विधिवत्प्रवर्तते। यतः स्मृतिशास्त्रमेतेषामेव धर्मे प्रामाण्यमिति बहुधा प्रतिपादयति। अतः अस्यामपि संस्कृतौ तादृशी भावना वर्तते यथा वैदिकसंस्कृतौ सारवद् रूपेण प्राप्यते। विश्वस्यास्यादिमसंस्कृतिर्वैदिकसंस्कृतिरिति तदनुगतरीत्या अस्याः संस्कृतेः पारम्परिकरहस्यं बहुधा प्रवर्तते। वेदेषु प्रथितानां नैकसिद्धान्तानां विधिवद् विस्तारो दृश्यते स्मृतिशास्त्रे। श्राद्धदानदैवतप्रायश्चित्तादिकर्माणि सुतरां स्मृतिशास्त्रे वैदिकशब्दविन्यासस्य प्राचुर्यंतां विन्दति। विश्वबन्धुत्वं दानमहिंसाशीलमाध्यात्मिकतां प्रति वैदिकसंस्कृतिः सुतरामन्वेति। सा संस्कृतिः विश्वस्यादिमसंस्कृतिरिति प्रशस्तिः जेगीयते। तदाधारेण स्मार्त्तक्रियाविधौ आचारादिनैतिकमार्गाणां सुष्ठु समायोजनं भवति। वैदिकसंस्कृतेः संरक्षणं परियोजनं क्रियान्वयनञ्च स्मार्त्तकर्मणि बहुधा अवलोक्यते। स्मृतिशास्त्रेषु मनुस्मृतिरेव सर्वकर्मणां वैदिकधर्माणां यथाविधिः संस्काराणां मानवीयक्रियाविधीनां गृहस्थादिधर्माणां लोकेषु वैदिकसंस्कृतेरनुगुणं बहुधा प्रतिपादयामास। अतो अत्रोक्ताचारव्यवहारप्रायश्चित्तश्राद्धदानराजधर्मादित्वेन नैकविधाः विषयाः सुष्ठु समायान्ति। यतो वैदिकसंस्कृतेः परिमार्जितस्वरूपं स्त्रीशूद्रादीनां कृते बहुधा प्रतिपत्तिजनकरीत्या अत्र उच्यते। अत्रोक्तधार्मिकसिद्धान्तानामाचारादिमार्गत्वेनोपदिष्टानां समेषां रहस्यानां समायोजितस्वरूपम् अभिहितत्वाद् स्मृतिशास्त्रमिदं बहुधा लोकोपयोगाय हिताय च प्रवर्तत इति नास्ति लेशमात्रमपि सन्देहस्यावकाशः।

PDF URL: View Article in PDF