Author(s): अम्बिका चौधुरी, प्रो. विजयश्रीवास्तवः
Abstract:
भारतीयपरम्परायां विविधानि शास्त्राणि वर्तन्ते । तेषु शास्त्रेषु भारतीयदर्शनं अत्यन्तं प्रामुख्यं भजते । भारतीयदर्शनस्य परम्परा मानवजीवनस्य दुःखवृत्तिं परमपुरुषार्थं च आधारीकृत्य प्रवर्तते । एतस्यां परम्परायां सांख्ययोगदर्शनयोः विशिष्टं स्थानं वर्तते । उभयोः दर्शनयोः प्रकृतेः तत्त्वस्य मूलाधाररूपेण सत्त्वगुणः रजोगुणः तमोगुणः च एते त्रयः गुणाः विशेषतः विवेचिताः वर्तन्ते । सांख्ययोगदर्शनयोः मुख्यं तत्त्वं प्रकृतिः विद्यते , या मूलप्रकृतिः त्रिगुणात्मिका प्रतिपादिता वर्तते । एते त्रयः गुणाः सर्वेषां भौतिक-मानसिक-आध्यात्मिकप्रवृत्तीनां मूलकारणत्वेन भवन्ति । एतेषां गुणानां पृथक् पृथक् स्वभावः भवति , सत्त्वगुणः प्रकाशकः , रजोगुणः प्रवृत्त्यात्मकः , तमोगुणः आवरणात्मकः च एतेषां एतादृशः स्वभावः वर्तते । सांख्यदर्शने गुणानां वैषम्यात् महदादितत्त्वानां उत्पत्तिः निरूप्यते , योगदर्शने गुणत्रयस्य चित्ते प्रभावः स्पष्टः निरूपितोऽस्ति । गुणानां विवेचनेन ज्ञायते यत् सांख्ययोगदर्शनयोः गुणतत्त्वस्य साम्यता वैषम्यता च कीदृशी वर्तते । दर्शनयोः गुणतत्त्वस्य अध्ययनेन मानवजीवने कीदृशः स्वभावः वर्तते । अध्ययनस्य निष्कर्षत्वेन ज्ञातं यत् उभयोः दर्शनयोः विविधानि गुणतत्त्वानि विद्यन्ते यानि मानवजीवने अत्यन्तं प्रासङ्गिकतां भजन्ते अपि च मानवजीवनव्यवस्थायाः स्वरूपनिर्माणे तद्विकासे च अत्यन्तमुपयोगीनि वर्तन्ते ।
PDF URL: View Article in PDF
