Author(s): नन्दिनी मिश्रा
Abstract:
कस्या अपि संस्कृत्याः समाजस्य वा उन्नतेः मुख्याधारः तस्य समाजस्य समुन्नतपरिवेशः भवति । सुव्यवस्थितसमाजे एव समुन्नतसंस्कृत्याः उत्थानं भवितुमर्हति । मानसिकसंतापरहिते प्राकृतिक-वातावरणे च मानवमस्तिष्कस्य विकासो भवति । अत एव मानवमस्तिष्कस्य समग्रविकासार्थं दर्शनशास्त्रस्य महती भूमिका वर्तते । ‘दृशिर् प्रेक्षणे’ धातोः ‘ल्युट्’ प्रत्यययोगात् दर्शनशब्दो निष्पद्यते । अस्मिन् जगति मानवः ज्ञानेन्द्रियैः विषयाणां प्रत्यक्षं करोति । सांसारिक विषयेभ्योऽतिरिक्ता अपि केचन पारलौकिकविषयाः सन्ति तेषां साक्षात्कारः लौकिकदृष्ट्या भवितुं नार्हति । तत्रैव दर्शनशास्त्रस्योद्भवः जायते । वास्तविकरूपेण दर्शनशास्त्रं मानवजीवने मूल्यानां संवर्धनं परिशुद्धचिन्तनधारायाः प्रवाहं च करोति । भारतीयज्ञानपरम्परायां प्राचीनकालादेव सर्गप्रतिसर्गयोः विषये महर्षिभिः अन्वेषणं कृतम् । सृष्ट्योत्पत्तेः कारणानामनुसन्धानं तेषां चिन्तनस्य प्रमुखः विषयः अस्ति । विभिन्नैः दार्शनिकैः स्व - स्वदृष्ट्या पदार्थानां यादृशः साक्षात्कारः कृतः तस्यैते ‘दर्शनम्’ इति नाम्ना व्यवहारो भवति । दर्शनशास्त्रस्य अध्ययने त्रीणां तत्त्वानां समावेशो भवति - तत्त्वमीमांसा, ज्ञानमीमांसा, आचार-मीमांसाश्चेति । अस्मिन् जगति सर्वेऽपि पदार्थाः उत्पत्तिविनाशशीलाः इति अनुभवसिद्धमेव । तेषामुत्पत्तिविषये मनसि प्रश्नः आयाति यदिदम् आकस्मिकम् अथवा कारणजन्यम् ? पुराकालादेव अस्य विषयस्योपरि दार्शनिकैः गहनान्वेषणं कृतम् । विभिन्नेषु दर्शनेषु पदार्थानाम् उत्पत्तिविषये कारणविषये मतभेदाः दृश्यन्ते तदाधारेण आचार्यशिवजीउपाध्यायविरचितसर्वदर्शनविमर्शग्रन्थेऽपि कार्यकारणवा-दसिद्धान्तस्य सङ्ग्रहरूपेण विवेचनं कृतं वर्तते । शोधपत्रेऽस्मिन् सारल्येन तेषां कार्यकारणविषयक सिद्धान्तानामवबोधः यथा स्यात्तथा प्रस्तुतीकरणं करिष्यते ।
PDF URL: View Article in PDF
