धर्मशास्त्रान्तर्गतस्य विवाहसंस्कारस्य आधुनिकपरिप्रेक्ष्ये औचित्यानौचित्ययोः प्रासङ्गिकता

Author(s): Dr.Sujan Biswas

Abstract:

भारतीयसंस्कृतौ षोडशसंस्कारेषु विवाहसंस्कारः प्रधानतमः संस्कारः परिगण्यते। धर्मशास्त्रेषु विवाहः केवलं स्त्री-पुरुषयोः सामाजिकसम्बन्धस्य स्थापना न, अपितु धर्मपालनस्य, कुलपरम्परारक्षणस्य, सन्तानसंस्कारस्य, समाजव्यवस्थायाः च आधारः इति प्रतिपादितः। विवाहसंस्कारे धार्मिकः, नैतिकः, सामाजिकः, व्यवहारिकः तथा तात्त्विकः—एतानि सर्वाणि तत्वानि अन्तर्भवन्ति। प्रस्तुते अध्ययने विवाहसंस्कारस्य व्यवहारिकस्वरूपम्, तस्य तात्त्विकाधारः, धर्मशास्त्रेषु प्रतिपादितानि आदर्शानि तथा आधुनिकसमाजे तेषां प्रासङ्गिकता विवेच्यते।

PDF URL: View Article in PDF