Author(s): Dr. Gandikota Chennaiah
Abstract:
भगवद्गीता भारतीयदर्शनस्य सर्वोत्तमग्रन्थेषु अन्यतमा अस्ति। अस्यां मानवजीवनस्य आध्यात्मिक, नैतिक, दार्शनिक, मनोवैज्ञानिक तथा सामाजिकविषयाः सम्यक् निरूपिताः सन्ति। द्वितीयाध्याये भगवान् श्रीकृष्णः अर्जुनस्य प्रश्नस्य उत्तररूपेण स्थितप्रज्ञस्य स्वरूपं विस्तरेण वर्णयति। स्थितप्रज्ञः नाम सः पुरुषः यस्य बुद्धिः स्थिरा, मनः प्रशान्तम्, इन्द्रियाणि निगृहीतानि, रागद्वेषौ विनष्टौ, आत्मज्ञानं दृढं च भवति। एतादृशः पुरुषः सुखदुःखयोः समः, लाभालाभयोः समदर्शी, मानापमानयोः निर्विकारः भवति। अस्मिन् शोधलेखे भगवद्गीतायाः द्वितीयाध्याये प्रतिपादितानि स्थितप्रज्ञलक्षणानि प्रमुखतया विवेचितानि सन्ति। तदनन्तरं द्वादशाध्यायस्य भक्तलक्षणानि, षोडशाध्यायस्य दैवीसम्पदः, तथा आधुनिकजीवने तेषां प्रासङ्गिकता अपि समालोचनात्मकदृष्ट्या निरूपिता अस्ति। विशेषतः "स्थितप्रज्ञस्य का भाषा", "दुःखेष्वनुद्विग्नमनाः", "ध्यायतो विषयान्पुंसः", "क्रोधाद्भवति सम्मोहः", "नास्ति बुद्धिरयुक्तस्य", "अद्वेष्टा सर्वभूतानाम्", "अनपेक्षः शुचिर्दक्षः", "अहिंसा सत्यमक्रोधः" इत्यादीनां श्लोकानामाधारेण स्थितप्रज्ञस्य व्यक्तित्वं विशदीक्रियते।
PDF URL: View Article in PDF
