मृच्छकटिके दारिद्र्यवर्णनम्

Author(s): PRANAB MAITY

Abstract:

कविना शूद्रकेण विरचिते मृच्छकटिकमिति प्रकरणे तत्कालीनसमाजे निवसितानां दारिद्र्याव-स्थोपेतमनुष्याणां या स्थितिः सा स्थितिरत्र चारुदत्ताख्यनायकमाध्यमेन स्वकविप्रतिभया वर्ण्यते। चारुदत्तस्य मतेन धनाभावे तावद्दुःखं न जायते यावन्निर्धने मित्राभावे सति जायते। दारिद्र्यान्मरणं श्रेयः क्षणिकक्लेशत्वात्। पूजापरिणयादिमाङ्गलिककर्मसु अतिथिरूपेण निमन्त्रिता धनिकगृहं प्राप्ता निर्धनाः तैर्धनिकैः पुनः अवमानसहितेनावलोक्यन्ते। भाग्यपङ्क्तिवत् सुखदुःखयोरपि मानवजीवने चक्रारपङ्क्तिरिव परिवर्तितत्वात् सुखान्यनुभूय दुःखं, दुःखान्यनुभूय सुखं चानुभवन्ति मानवाः। निर्धनत्वाच्चारुदत्तस्य बान्धवाः कुटुम्बजनाश्च विपत्सु तं परित्यज्य कथं दूरं गताः किञ्च, धनिकाः दारिद्र्येषु स्वदोषान् पातयन्तः सुखेन जीवनं यापयन्ति इत्यादिवषया यथोपयुक्तरीत्या कविनात्र विश्लेषिताः। अपरञ्च, शास्त्रप्रतिपादितपञ्चमहापातकेषु दारिद्र्यं षष्ठं महापातकमिति नूतनं चिन्तनं कवेरत्र प्राप्यते। चारुदत्तस्य दारिद्र्ये सत्यपि वसन्तसेनया संस्थापितोऽलङ्कारस्तेन रक्षित इति तस्य सद्दुणानां परिचयो दरीदृश्यते।

PDF URL: View Article in PDF