Author(s): संज्ञा शतपथी
Abstract:
अस्मिन् जगति ईश्वरीयसत्तायाः सर्वोत्कृष्टकारणीभूता स्त्रीजातिरेव अस्ति। यथा प्रकृतिः जगदुत्पादने कारणीभूता तद्वदेव स्त्रीजातिरपि समग्रप्राणिनामुत्पादने कारणीभूता वर्तते, यस्यां प्रजननस्य क्षमता वर्तते। यदि पृथिव्यां नारी न भवेत्, तदा विश्वविस्तारस्य कल्पना न कर्तुं शक्यते। आधुनिकैः वैज्ञानिकैः ब्रह्माण्डस्य अनेके ग्रहोपग्रहाः अन्वेषिताः, एतादृशाः विस्फोटकाः अपि रचिताः, येषां प्रयोगेन क्षणमात्रकाले एव अस्य विश्वस्य विनाशो भवेत् , परन्तु कस्यापि जीवस्योत्पादने ते न समर्थाः । अस्मिन् जगति मानवजीवस्योत्पादने स्त्री एव समर्था । इत्यस्मिन् विषये नास्ति कोऽपि संशयः।
PDF URL: View Article in PDF
