Author(s): Santosh Kumar Tiwari
Abstract:
विशिष्टाद्वैतसिद्धान्ते परब्रह्म परमात्मा जगतः उपादानकारणं निमित्तकारणं चेति उभयमपि भवति। एष एव "अभिन्ननिमित्तोपादानवादः"। लोके घटादिकार्ये उपादानं (मृत्तिका) निमित्तं (कुलालः) च भिन्ने दृश्येते; ब्रह्मणि तु उपादानत्वस्य निमित्तत्वस्य च आश्रय एक एव। सूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणम्, स्थूलचिदचिद्विशिष्टं ब्रह्म कार्यमिति सिद्धान्तः। अस्मिन् पत्रे श्रुतिभिः, ब्रह्मसूत्रेण, शरीरात्मभावेन, पूर्वपक्षसमाधानैश्च वादोऽयं निरूप्यते। वेदान्तदर्शने जगत्कारणत्वविचारः प्रमुखो विषयः। "यतो वा इमानि भूतानि जायन्ते" (तै.उ. ३.१.१) इत्यादिश्रुत्या ब्रह्म जगत्कारणमिति ज्ञायते। किन्तु तत्कारणत्वम् उपादानरूपं निमित्तरूपं वा, उभयरूपं वा—इत्यत्र मतभेदाः सन्ति। रामानुजीयाः विशिष्टाद्वैतिनः ब्रह्म जगतः अभिन्ननिमित्तोपादान-कारणमिति सिद्धान्तयन्ति।
PDF URL: View Article in PDF
