वैदिकसंवादेषु निर्देशनपरामर्शतत्त्वानाम् अध्ययनम्

Author(s): दीपक नागदा

Abstract:

भारतीयज्ञानपरम्परायां वेदानां स्थानम् अत्यन्तं महत्त्वपूर्णम् अस्ति। वेदेषु न केवलं धार्मिकज्ञानस्य, आध्यात्मिकचिन्तनस्य च वर्णनं प्राप्यते, अपितु मानवजीवनस्य विविधसमस्यानां समाधानाय आवश्यकानां नैतिकसामाजिकमनोवैज्ञानिकतत्त्वानामपि प्रतिपादनं दृश्यते। ऋग्वेदस्य विभिन्नेषु सूक्तेषु संवादस्य, विचारविनिमयस्य, परामर्शस्य, सहकारस्य, आत्मचिन्तनस्य च महत्त्वं प्रतिपादितम् अस्ति। आधुनिकशिक्षाव्यवस्थायां निर्देशनं परामर्शश्च विद्यार्थिनां सर्वाङ्गीणविकासाय महत्त्वपूर्णौ स्तः। निर्देशनमाध्यमेन व्यक्तिः स्वक्षमतानां, रुचीनां, योग्यतानां च ज्ञानं प्राप्नोति तथा परामर्शस्य माध्यमेन मानसिकद्वन्द्वानां, व्यवहारसम्बद्धसमस्यानां, निर्णयसम्बद्धकठिनतानां च समाधानाय मार्गदर्शनं लभते। अस्मिन् शोधपत्रे ऋग्वेदस्य संवादप्रधानसूक्तानाम् आधारेण निर्देशनपरामर्शतत्त्वानाम् अध्ययनं क्रियते। ऋग्वेदस्य संज्ञानसूक्तम् (१०.१९१), विश्वामित्रनदीसंवादः (३.३३), पुरूरवाउर्वशीसंवादः (१०.९५) तथा अक्षसूक्तम् (१०.३४) अस्य अध्ययनस्य प्रमुखाधाराः सन्ति। एतेषां सूक्तानां विश्लेषणेन ज्ञायते यत् संवादः, सहानुभूतिः, आत्मविश्लेषणम्, उचितनिर्णयः, सकारात्मकचिन्तनम्, सहकार्यभावना च मानवस्य व्यक्तिगतसामाजिकविकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति।

PDF URL: View Article in PDF