Author(s): Menoka Barai
Abstract:
नारीणां सुरक्षा सम्मानः समानाधिकारः च भारतीयसंविधानस्य मूलभावेषु अन्तर्भवन्ति। भारतीयसमाजे नारीणां विरुद्धं हिंसा, लैङ्गिकभेदभावः, पणप्रथा, बालविवाहः, कार्यस्थले लैङ्गिकउत्पीडनम्, मानवव्यापारः, अन्तर्जालिकापराधाः इत्यादयः समस्याः अद्यापि विद्यन्ते। एतासां समस्याणां निराकरणाय भारतीयसंसदेन बहवः नारीसुरक्षानियमाः निर्मिताः, तेषां प्रभावी कार्यान्वयनाय राष्ट्रीयमहिला-आयोगः, राष्ट्रीयमानवाधिकार-आयोगः, राज्यमहिला-आयोगः इत्यादयः आयोगाः संस्थापिताः। अस्मिन् शोधपत्रे नारीसुरक्षासम्बद्धानां प्रमुखनियमानां स्वरूपं, भारतीय-आयोगानां भूमिका, तेषां योगदानं, वर्तमानकालिक-समस्या-समाधानोपायाः सम्यग्विश्लेषिताः सन्ति।
PDF URL: View Article in PDF
