International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Veerendra kumar V
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा॥
प्रशस्थः, नित्ययुक्तः भूम्ना भगनामकः सद्गुणसमुदायः यस्मिन् वर्तते स: भगवान्। भगवतः इदं भागवतम्। एवं भगवति भक्ताः भागवताः। भगवतः इदं भागवतानां इदं वा भागवतम्। श्रीमद्भागवतं च यद्यपिभक्ति शास्त्रसर्वस्वमिति प्रसिद्धम्। तथापि सांख्यदर्शनस्य योगदर्शनस्य च प्रशंसा श्रीमद्भागवते विस्तरेण वर्तते। श्रीमन्नारायणः एव स्वयं सांख्यं योगं च अस्मिन् महापुराणे शिष्यान् उपदिदेश। सांख्ययोगदर्शनयोः समग्रतत्त्वं श्रीमद्भागवते निरूपितम्।
पुराणं पञ्चलक्षणमिति यद्यपि प्रसिद्धं श्रीमद्भागवते पुनः विशेषतया दशलक्षणानि निरूपितानि। श्रीमद्भागवते द्वादशसु स्कन्धेषु द्वौस्कन्धौ कथाप्रवेशवर्णनेन उपोद्घातरूपौ। तृतीयस्कन्धादारभ्य सर्गादीनि लक्षणानि क्रमेण वर्णितानि। तृतीयस्कन्धे सर्गः निरूपितः। तत्र षड्विंशे अध्याये भगवान् सांख्यदर्शनमनुसृत्य सृष्टिक्रममुक्तवान् तस्मिन्नेवाध्याये सृष्टेः स्वरूपं, मोक्ष लक्षणं च उक्तवान्। तृतीयस्कन्धे ब्रह्मणः मानसपुत्रः स्वायम्भुवः मनुः दक्षपुत्रीशतरूपां उपयेमे। तयोः प्रभूतानां अपत्यानां मध्ये तिस्रः कन्याः प्रसिद्धाः।