International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Renu Vats
संसारस्य धर्मः संस्कृतिः इति द्वे आधारभूमी स्तः। एतौ द्वौ पवित्रभारतवर्षस्य आत्मगौरवस्य परिचायिकौ स्तः। यथा धर्मः संस्कृत्या सह सम्बन्धितस्तथैव संस्कृतिरपि धर्मेण सह संपृक्ता। संस्करणं संस्कृतिः,एतस्याः वाहकः धर्मः। संस्कृतेः प्रागेव धर्मस्य प्रादुर्भावः जात:। संस्कृतेः विकासाय आधारं निर्माय च समुचितसाधनानि विधाय साध्यपर्यन्तं प्रापयितुं धर्मः एव पूर्णसहयोगं करोति। अतः प्रोक्तम्-
“ धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः”। इति
भारतीयसंस्कृत्यां धर्मस्यैव प्राधान्यता वर्तत्ते। धर्मात् व्यवच्छिन्नाः मानवाः पशुभिः सदृशाः प्रतिभान्ति। भारतीयसंस्कृतिः लोकेषु विश्वबन्धुत्वभावनां सृजयति। यथा-
“मित्रस्याऽहं चक्षुषा सर्वाणि भूतानि समीक्ष्ये।
मित्रस्य चक्षुषा समीक्षामहे।।” इति
जगत्यस्मिन् धर्मसंस्कृतेः प्रतिपादनं न केवलं वैदिकसाहित्ये वर्णितम् अपितु लौकिक साहित्येऽपि स्पष्टरूपेण समुपलभ्यते। प्राचीनकालाद् आद्यपर्यन्तं भारतस्य सामाजिकसांस्कृतिकधार्मिकजीवनस्य प्रतिफल काव्ये एव भवति। महाकवि कालिदासः धर्मसंस्कृत्योः परमोपासकः। अतः तस्य सर्वश्रेष्ठे महाकाव्ये रघुवंशे सार्वकालिकः सार्वदेशिकः च धर्मसंस्कृत्योः यत्समुत्कृष्टरूपः प्राप्यते तद् अद्यपर्यन्तं अस्माकं समाजस्य आदर्शः अस्ति। यतो हि समाजस्य मूले अस्त्येव धर्मसंस्कृती। सदाचारः, वर्णाश्रमव्यवस्था, संस्कारः, त्यागः, तपस्या, सहिष्णुता, मातृपितृगुरूभक्तिः, कर्मवादः, आध्यात्मिकभावना, कर्तव्यनिष्ठता, मोक्षचिन्तनं, गोसेवा, पुनर्जन्मवादः इत्यादयः अस्माकं संस्कृतिं समेधयन्ति । कालिदासस्य सर्वश्रेष्ठमहाकाव्ये रघुवंशे एतानि सर्वाणि तत्वानि च उपनिबद्धानि सन्ति । का नाम संस्कृतिः, को धर्मः, एतौ द्वौ कीदृशौ प्रतिफलितौ रघुवंशमहाकव्ये तदेव शोधलेखेऽस्मिन् मया प्रस्तूयते