International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): प्रो.विजयपालकच्छवाह
विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्रचीनतमा अस्ति। अस्यां भाषायां प्राचीन ज्ञान-विज्ञानं निहितमस्ति। भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा अनेन वाक्येन एवं संस्कृतस्य महत्वनुभूयते। विश्वेऽस्मिन् केवलं संस्कृतभाषायां यद् साहित्यं वर्तते तेषां ज्ञानं समाजे कथं स्यात्, एतद् उत्तरदायित्वं संस्कृताध्यापकस्य भवति संस्कृते विद्यमानाः सूक्तयः अभ्युदाय प्रेरयन्ति। यथा-
डॉ. सर्वपल्लीराधाकृष्णनोक्तम्- ''अध्यापकः राष्ट्रस्य मार्गदर्शको भवति।'' अतः सः छात्रेभ्यः आदर्शप्रतिरुपः स्यात्। यतोहि बालाः कुटुम्बजनानां तथा अध्यापकस्यैव प्रायशः अनुसरणं कुर्वन्ति। गीतायामपि उक्तं यत् यादृशम् आचरणं श्रेष्ठैः क्रियते, तादृशमेव इतरे कुर्वन्ति। यथा-
यद्यादाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।। (गीता-३/२१)