International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Monojit Mukherjee
मुच् धातोः क्तिन् प्रत्यये सति मुक्तिः इति शब्द भवति, अद्वैतवेदान्तोक्तदिशा ब्रह्मज्ञानस्य कृते मनुष्याणां चित्तशुद्धिः भवेत्। चित्तशुद्धेः कृते यागयज्ञादयः कर्त्तव्याः। उपासनस्य एका महती भूमिका वर्त्तते, तत्र सगुणब्रह्म अर्थात् ईश्वरस्य आराधना कर्त्तव्या चित्तशुद्धेः अनन्तरं वेदान्तवाक्यानि असकृद् श्रोतव्यानि, मन्तव्यानि, निदिध्यासतव्यानि च। यदा मनुष्याणां ब्रह्मज्ञानं जायते, तस्यां दशायां मनुष्याः जराबन्धदुःखै मुच्यन्ते, न कोऽपि संस्कारः अस्ति, न कोऽपि दोषः अस्ति । वेदान्तज्ञानस्य कृते, यागयज्ञकर्म, उपासनं, इति इमे अपेक्षन्त, यतो हि एतेषां भूमिका महती वर्तते। असकृत् अभ्यासेन शुद्ध अन्तःकरणे ब्रह्मसाक्षात्कारः सम्भवति। ब्रह्मज्ञानस्य कृते मुक्तौ इच्छा भवितव्या तत् मुमुक्षत्वम् इति कथ्यते। मुक्तेः अस्यां दशायां मुमुक्षु धर्म-अधर्म, सुख दुख इति एभिविषयैः साकं न सम्बन्ध्यते। यदा मनुष्याणां ब्रह्मज्ञानं न भवति तदा ते जराबन्धसुखदुःखैः साकं अविद्यावशात् सम्बन्धति। यदा ब्रह्मज्ञानं जायते तदा अविद्या नश्यते, तेन जराबन्धवत् काठिन्यम् अपि नश्यते च। वेदान्तग्रन्थेभ्यः उत्पद्यते यज्ज्ञानं तद् वेदान्तविज्ञानं इति कथ्यते। वेदान्तविज्ञानं येन निश्चीयते तस्य मोक्षेच्छा अस्ति इति निश्चीयते। सर्वकर्मपरित्यागरूपयोगात् अर्थात् केवलं ब्रह्मनिष्ठास्वरूपात् शुद्ध- ब्रह्मज्ञानं अनुभूयते।