International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डः प्रियङ्का महान्त
दृश्यमाणे विश्वप्रपञ्चेऽस्मिन् स्वस्वरूपप्रतिष्ठायै सर्वेषां दर्शनानां वेदोपनिषदां महत्त्वं राराजते। तत्र श्रुतिषु ज्ञानसाधनममृतत्वाय कल्पते इति प्रदर्शितम्। महाभारते वीतरागभयलोभमोहमनुष्यः साधनद्वारा मोक्षं लभते इति निगदितम्। भगवद्गीतायां स्थितप्रज्ञमनुष्य अद्वैतमात्मतत्वं लब्ध्वा अमृतमयं मोक्षमाश्रयते। पुराणादिषु भगवद्भक्त्या परानुरक्त्या च मोक्षाय प्रवर्त्तते। नैयायिक-वैशेषिकसिद्धान्ते प्रमाणादि षोडशपदार्थानां तत्त्वज्ञानादेव मुक्तिः सिध्यति। नित्यनैमित्तिककर्मणा मुक्तिः संपद्यते। तथा च सांख्यदर्शने पञ्चविंशतितत्वविज्ञानादपवर्गः जायते। योगे चित्तवृत्तिनिरोधादेव स्वरूपावस्थानं मुक्तिः वा लभ्यते इति।