International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): Dr. Gurupada Roy
अभिज्ञानशाकुन्तलम् संस्कृतसाहित्यस्य अत्यन्तप्रसिद्धं नाटकं यत् कालिदास विरचितम् अस्ति। एतत् नाटकं रूपकप्रकारेषु श्रेष्ठतमं मन्यते तथा च भारतीयनाट्यपरम्परायाः गौरवमपि वर्तते। अस्य कथावस्तु महाभारताद् गृहीता अस्ति, किन्तु कविना स्वकवित्वेन तस्य सौन्दर्यं बहुगुणितं कृतम्। अस्य नाटकस्य प्रमुखा नायिका शकुन्तला, या कण्वमहर्षेः आश्रमे वर्धिता, अत्यन्तसुन्दरी, कोमला च स्वभावेन अस्ति। राजा दुष्यन्तः तां दृष्ट्वा तस्याः प्रेम्णि निमग्नः भवति। अस्मिन् नाटके प्रकृतिवर्णनम्, मानवीयभावानां सूक्ष्मचित्रणम्, तथा रस-ध्वन्यादीनां अद्भुतः समन्वयः दृश्यते। विशेषतः श्रृङ्गाररसस्य उत्कर्षः अत्र प्रमुखतया प्रकाशते। अतः अभिज्ञानशाकुन्तलम् केवलं नाटकं न, अपि तु संस्कृतसाहित्यस्य अमूल्यरत्नम् इति प्रसिद्धम्। नाटकेऽस्मिन् नायिकालङ्कारविमर्शः क्रियते।
अभिज्ञानशाकुन्तलमिति नाटके युगपदेव सामाजिक-सांस्कृतिक- अभिज्ञानशाकुन्तलं नाम मनोवैज्ञा-निकतथ्यानां समावेशो दाक्ष्येण कविना व्यधायि। नारीमनोविज्ञानस्य परीक्षकोऽयं महानुभावो नाटकस्यास्य नायिकारूपेण भरतकुलप्रसविनीं शकुन्तलां स्वीचकार । शकुन्तलाया नायिकारूपेण यदौदात्यं, नारीजनोचितं च माधुर्यमनेन चित्रितं, तन्नितरां प्रेक्षावद्भ्यः स्पृहास्पदम्। अत्रत्या नायिका मुग्धा कुसुममृद्वी, सर्वास्वपि संस्कृतसाहित्यचर्चितासु नायिकासु विशिष्टा, महिष्ठा चास्ति। साहित्यिकै -र्लक्षणनिर्धारकैर्यानि लक्षणानि नायिकावैशिष्ट्योपपत्तये निर्धारितानि तेषां प्रायेण समेषामेव शकुन्तलायां सङ्गतिर्भवति। अत्र नायिकाया महत्त्वद्योतकाः केचन अयत्नजाः स्वभावजाश्चालङ्काराः परिशील्यन्ते येषां स्थितेः शकुन्तलायाः अनवद्यं नायिकात्वं परमां प्रतिष्ठामाप्नोत्। नायिकाया अलङ्काराणाञ्चर्चा प्रायेण सर्वेष्वपि लक्षणग्रन्थेषु लभ्यते, तेष्वपि भारतीये नाट्यशास्त्रे, दशरूपके च एतद्विवरणं विशेषतः सुस्पष्टमवलोक्यते। युवावस्थायां तरुणीषु नायिकासु विंशतिरलङ्काराणां स्थितिरवलोक्यते। एते सत्त्वजा अलङ्कारा दशरूपककृता वर्गीकृताः। ते च यथा-