International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): मधुमिता दासः
प्राचीनभारतम् ज्ञानविज्ञानयोः उद्गमस्थलम् इति प्रसिद्धम् । अत्र गणितम्, ज्योतिषम्, दर्शनम्, साहित्यं च इत्यादिषु क्षेत्रेषु उल्लेखनीयः विकासः अभवत् । किन्तु तेषु सर्वेषु चिकित्साविज्ञानस्य उन्नतिः विशेषतया प्रशंसनीया आसीत् । भारतीयचिकित्साविज्ञानं केवलं रोगोपचारपर्यन्तं न सीमितम्, अपि तु जीवनपद्धतेः समग्रदृष्टिकोणं प्रदर्शयति । शरीरस्य, मनसः, आत्मनः च समन्वयः एव अस्य मूलतत्त्वम् । अस्य शास्त्रस्य मूलाधारः आयुर्वेदः अस्ति, यः ‘आयुषः वेदः’ इति व्युत्पत्त्या जीवनस्य सम्पूर्णज्ञानं प्रतिपादयति । आयुर्वेदः पञ्चमहाभूतसिद्धान्तम् अधिष्ठाय त्रिदोषसिद्धान्तं (वातः, पित्तं, कफः) प्रतिपादितवान् । एषां दोषाणां साम्यावस्था एव आरोग्यं, वैषम्यं तु रोगः इति मन्यते स्म । अस्य उद्देश्यः रोगप्रतिकारात् प्रागेव स्वास्थ्यरक्षणम् आसीत् ।
प्राचीनचिकित्साशास्त्रेषु शल्यचिकित्सायाः अपि उच्चस्तरीयं ज्ञानमासीत् । सुश्रुतमहर्षिणा विरचितेन ‘सुश्रुतसंहिता’ शल्यचिकित्सायाः प्राचीनतमं ग्रन्थत्वेन प्रसिद्धः। अस्मिन् १२० प्रकाराणां शस्त्राणां, ३०० प्रकाराणां शल्यक्रियाणां, मूत्रीयाश्मरी, कर्णनासिकाप्लास्टिका इत्यादीनां जटिलशल्यक्रियाणां विस्तृतं वर्णनं प्राप्यते ।
जीवनस्य आधारभूततत्त्वानि शोधयितुं मानवशरीरस्य सूक्ष्मज्ञानाय च शवविच्छेदनम् अपि प्रचलितमासीत् । निद्रा, आहारः, ऋतुचर्या इत्यादयः दिनचर्यायाः अङ्गत्वेन निर्दिष्टाः, येन शारीरिकमानसिकसामाजिकसम्पत्तेः संतुलनं रक्षितुं शक्यते ।