International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): ऋतुपर्णा गायेन
सुविदितमेव एतत् विवश्चिदपश्चिमानां यत् लोके द्विविधं वस्तु वर्तते। एकः आत्मा अपरः अनात्म इति अस्यैव विभागस्य दृक् दृश्यम् इत्यपि नामान्तरं वरीवर्ति। आत्मा हि "सत्यं ज्ञानम अनन्तं ब्रह्म" "विज्ञानम् आनन्दं ब्रह्म" इत्यादि श्रुत्या ब्रह्मशब्दवाच्यस्य ज्ञानरूपत्वेन अबिधानात् यत् तस्यैव यत् साक्षात् अपरोक्षात् "ब्रह्म यः आत्मा" इति श्रुत्या दृक्स्वरूपत्वस्य आत्मत्वस्य च प्रतिपादनात् च। ब्यतिरिक्तस्य सर्वस्यापि प्रपञ्चस्य दृश्यत्वस्य सर्वानुभवसिद्धत्वात् च। अनयोः एव वस्तुनोः ज्ञानरूपत्वं तदभावे पुरस्कृत्य चेतनम् अचेतनम् इति चेतनं जडम् इति च विभागः प्रमाणिकेषु उपलभ्यते।