International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): Dr. Sushant Pradhan
उपनिषदः भारतीयचिन्तनपरम्परायाः दार्शनिकमूलाधारभूताः ग्रन्थाः सन्ति। तेषु केवलं ब्रह्मविद्यायाः अथवा मोक्षशास्त्रस्य प्रतिपादनं न दृश्यते, अपि तु मानवजीवनस्य नैतिकाध्यात्मिकपरिष्काराय आवश्यकानां मूल्यानां विस्तृतं विवेचनमपि लभ्यते। शौचम्, सत्यम्, धर्मः, अहिंसा, श्रद्धा, दानम्, दया, अस्तेयम्, मनोनिग्रहः, आहारशुद्धिः, विद्या-अविद्ययोः विवेकः इत्यादयः मूल्यविषयाः उपनिषदां जीवनदृष्टेः अनिवार्याङ्गानि सन्ति। उपनिषदां दृष्टौ नैतिकता केवलं सामाजिकनियमपालनं न, अपि तु आत्मशुद्धेः, चित्तप्रसादस्य, ब्रह्मज्ञानस्य च साधनं वर्तते। तत्र शौचं साधकस्य अन्तर्बाह्यशुद्धेः आधारः, सत्यं जीवनस्य परमं नैतिकमूल्यम्, धर्मः कर्तव्यबोधस्य नियामकः, अहिंसा सर्वभूतहितभावस्य प्रतीकं च भवति। एवं श्रद्धा ज्ञानमार्गस्य प्रेरिका, दानं सामाजिकसमन्वयस्य साधनम्, दया सार्वभौममानवतायाः अभिव्यक्तिः, आहारशुद्धिः चित्तशुद्धेः कारणं च प्रतिपाद्यते। प्रस्तुतलेखे उपनिषदां नैतिकाध्यात्मिक-मूल्यदृष्टेः स्वरूपं समालोचनात्मकरीत्या विविच्यते। अस्मिन् अध्ययनस्य उद्देश्यं उपनिषदां मूल्यचिन्तनं केवलं आध्यात्मिकमोक्षपरम्परायामेव न, अपि तु व्यावहारिकजीवनस्य नैतिकनिर्माणेऽपि कथं महत्त्वपूर्णं वर्तते इति प्रतिपादयितुं वर्तते।