International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डा. हेमन्त कुमार मुदुलिः
सृष्टेः तथा जीवनस्य रहस्यं ज्ञातुमेकं प्रसिद्धं सूत्रं वर्तते। तद् यथा "यथा पिण्डे तथा ब्रह्माण्डे" वस्तुतः गर्भस्थस्य शिशोः भ्रूणं पिण्डं वा येन शिशु जायते इति सर्वथा महत्वपूर्णं भवति। निखिले संसारे सर्वाधिकं रहस्यपूर्णं भवति गर्भधारणम्। तथा च गर्भस्थस्य शिशोः विकाशः मानवमस्तिष्कं च । जडप्रकृतेः पृष्टे चेतना विद्यते। यथा जडा प्रकृति सचेतना सक्रिया च भवति विश्वचेतना अथवा समष्टि चेतना तथा व्यक्तिचेतना अथवा व्यष्टिचेतना तत्त्वतः एका एव भवति। मनुष्य एक विकसित प्राणि भवति। अतः स्वचेतनया (व्यष्टि चेतनया) असौ सचेतन सक्रियश्चभवति अपि च विचारे कर्मणि च स्वतन्त्रः भवति। असौ विश्वचेतनानुकूलं कर्म करोति। अतः असौ अभ्यूदयं सुखं शान्तिं च लब्धुं शक्नुयात्। परन्तु यदा असौ प्रतिकूलं कर्म करोति तदा पतनं दुःखं अशान्तिं च प्राप्नोति। चैतन्यं इश्वरीय तत्वं भवति। उक्तं च - "भूतानामस्मि चेतना'1 परमात्मा एव मनुष्येषु जीवात्मरुपेण तिष्ठति। असौ जीवात्मा सुखं दुःखं च अनुभवति। मनुष्य स्वस्य अन्तश्चेतनायाः उच्चस्तरे परात्मनः वाणीं श्रोतुं शक्नोति । अतः परात्मना सह संयुज्य कर्म करोति। असौ मनुष्य नरपशुः, नरपिशाचः, महामानवः, देवो वा भवितुं शक्नोति। स्वस्य पतनाय दुःखाय च भगवन्तं भाग्यं च प्रति दोषारोपणं एकं भ्रमात्मकं चिन्तनम्। प्रकृतिः व्यक्ति संरक्षणे जाति प्रजाति परिरक्षणे च सक्रिया भवति। असौ प्रकृति जीवन रक्षणाय पूर्णां व्यवस्थां करोति। परन्तु मनुष्य नीच स्वर्थस्यहोतोः भोगिशक्त्या लिप्तःसन् प्रकृतेः व्यवस्थां छित्वा भित्वा च नानाविधं संकटमामन्त्रयति।