International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डॉ. रश्मिताजेना
ज्ञानाधिकरणमात्मा। ज्ञानं समवायसम्बन्धेन आत्मनि तिष्ठति । ज्ञानाश्रयत्वमात्मनो लक्षणम्2। कारिकावल्यनुसारं आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम्3। अतति गच्छतीति आत्मा। स च सर्वदेहव्यापी अर्थात् जीवात्मपरमात्मभेदेन द्विविधः । परमात्मा एक एव, जीवस्तु प्रतिशरीरं भिन्नः। तत्रेश्वरस्सर्वज्ञः इन्द्रियाणां शरीरस्य च अधिष्ठाता भवति आत्मा। अधिष्ठाता नामो स्वविषयक-ज्ञाननिष्ठजन्यतानिरुपितजनकताख्यपरम्परासम्बन्धेन इन्द्रियाणां ज्ञानवत्तासम्पादकः, अवच्छेदकताख्य-परम्परासम्बन्धेन च शरीरस्य ज्ञानवत्तासम्पादकः। इन्द्रियाद्यधिष्ठातृत्वम्, समवायेन ज्ञानाधिकरणत्वं वा आत्मनो लक्षणम्। कालादीनां कालिकादिसम्बन्धेन ज्ञानाधिकरणत्वात् तत्र अतिव्याप्तिवारणाय ज्ञाननिष्ठाधेयतायां समवायेन इति विशेषणम्। भूतकाले अतिव्याप्तिवारणाय ज्ञानमिति विशेषणमत्रोपात्तम् । लक्षणगतज्ञानपदं तु शब्देच्छादेः उपलक्षकमिति । अनुमानन्तु इदं भवति इन्द्रियाणि शरीरञ्च ज्ञात्राधिष्ठितम् अचेतनत्वे सति जनकत्वावच्छेदकत्वेतदन्यतरसम्बन्धेनात्मनिष्ठज्ञानविषयक- ज्ञानवत्वात्, आत्मवत् इति। शरीरेन्द्रियादिकमवच्छेदकं तथा आत्मा अवच्छेद्येति।