International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): काजल
आचार्यनागार्जुनविरचितायां मूलमध्यमककारिकायां वर्णितयोः द्वयोः सत्ययोः (संवृतिसत्यस्य परमार्थसत्यस्य च) भावनाविधिं व्याख्यातुम् आचार्यार्यदेवेन अस्य चतुःशतकशास्त्रस्य रचना कृता। अयं चतुःशतकग्रन्थो माध्यमिकपरम्परायाः महत्त्वपूर्णो ग्रन्थोऽस्ति, यस्मिन् साधनापक्षस्य प्रज्ञापक्षस्य च क्रमिकं निरूपणं दृश्यते। ग्रन्थस्य नवमप्रकरणात् पञ्चदशप्रकरणपर्यन्तं वस्तूनां स्वभावसिद्धास्ति-त्वसम्बन्धितानाम् विभिन्नानाम् आग्रहाणां प्रतिषेधः कृतः अस्ति। तेषु दशमप्रकरणम् आत्मप्रतिषेधाय समर्पितम् अस्ति। प्रस्तुतशोधपत्रे अस्यैव आत्मप्रतिषेधदृष्टेः विवेचनं कृतम् अस्ति। आर्यदेवः आत्मानं नित्यं, स्वतन्त्रं, स्वभावसिद्धं च तत्त्वं न स्वीकुर्वन्ति। त्रिविधलिङ्गस्य समस्यया आरभ्य ते आत्मनः देहात् भिन्नत्वं, कर्तृत्वं, कर्मफलभोक्तृत्वं, जातिस्मरणं, नित्यत्वं, निर्वाणस्य चाधाररूपेण आत्मनः आवश्यकताम् इत्यादीनाम् आपत्तीनां क्रमशः समीक्षां कुर्वन्ति।
चतुःशतकेऽनित्येषु भावेष्वात्मकल्पनायाः व्याख्या क्रियते। आचार्यचन्द्रकीर्तेः व्याख्या अस्मिन् बिन्दौ अधिकं स्पष्टं करोति यत् पञ्चस्कन्धेभ्यः पृथक् कश्चित् स्वभावसिद्धः आत्मा सिद्धो न भवति, आत्मनः संज्ञा स्कन्धानाम् आश्रयेण व्यावहारिकरूपेण अवगम्यते। एवम् आत्मप्रतिषेधस्य निष्कर्षः शून्यवादात्मक उच्छेदवादो न, अपितु निःस्वभाववादः अस्ति।