Author(s): जोगेश्वरसाहा
Abstract:
अस्मिन् शोधलेखे ओडिशाप्रदेशस्य माध्यमिकस्तरे (नवम-दशमकक्ष्यायोः) संस्कृतविषयं पठतां छात्राणां आत्मदक्षतायाः (Self-Efficacy) स्वरूपम्, तस्याः स्तरः, भाषिककौशलेषु तस्याः प्रभावः, तस्याश्च विकासे बाधक-पोषकतत्त्वानि च क्रमबद्धपद्धत्या परीक्ष्यन्ते। आधुनिके भाषाशिक्षणशास्त्रे मनोवैज्ञानिकघटकानां भूमिका सर्वविदिता। अयं शोधः वर्णनात्मक-सर्वेक्षणपद्धत्या (Descriptive Survey Method) सम्पादितः। ओडिशाप्रदेशस्य त्रिभ्यः प्रमुखमण्डलेभ्यः (बलाङ्गीर-बरगड-नूआपडामण्डलेभ्यः) यादृच्छिकविधिना (Stratified Random Sampling) चयनितानां ६॰॰ छात्राणां प्रदत्ताः (Data) सङ्गृहीताः विशदीकृताश्च। अध्ययनेन ज्ञायते यत् छात्राणां पाठ्यज्ञानसङ्ग्रहे आत्मदक्षता समीचीना वर्तते, किन्तु व्याकरणप्रयोगे सम्भाषणे च सा मध्यमा अथवा न्यूना दृश्यते। शिक्षणपद्धत्याः आधुनिकीकरणेन छात्राणां भाषा-आत्मदक्षतायां सकारात्मकं परिवर्तनम् आनेतुं शक्यते।
PDF URL: View Article in PDF
