Author(s): सन्दीपन-रायः
Abstract:
चतुर्वर्गेषु मोक्षस्तु चरमताकं भजते । वस्तुतस्तु पुरुषेण अर्थ्यते प्रार्थ्यते यः स पुरुषार्थः । तत्रत्यस्य तुर्यस्य मोक्षस्य यद्यपि माहात्म्यं दार्ढ्येन गीयते समत्र शास्त्रेषु , तथापि इतरेषां धर्मादीनां प्रशस्तिरपि विधीयमाना दृश्यते । भणितं कामशास्त्रेऽपि –“धर्मार्थकामेभ्यो नमः” इति । स्वापकर्षानुकूलव्यापारो नमःशब्देन अर्थ्यते । नमस्कर्ता नमस्कार्यापेक्षया अपकृष्ट इति ज्ञानानुकूलव्यापार इत्यर्थः । कथङ्कारमेतेषां श्रेष्ठत्वमिति चेदुच्यते “शास्त्रे प्रकृतत्वादि”ति । अर्थाच्छास्त्रप्रतिपाद्यत्वादिति भावः । धर्मो हि द्वेधा निवृत्तिपरः प्रवृत्तिपरश्चेति । आदिस्तु मोक्षोपयोगी । परन्तु, प्रवृत्तेर्विषया धर्मादयस्तु भोगमूलाः । भोगो नाम सुखदुःखात्मकोऽनुभवः । वैयासिके चतुर्वर्गाणां सुष्ठूपवर्णनं नयनपथि प्रतिभाति । पुरुषार्थचतुष्क अर्थोऽन्यतमताकं भजते । येन विना जीवनन्न याप्यते तदेवेह अर्थपदवाच्यम्, यथा अन्नादिकमिति । शरीरमाद्यं खलु धर्मसाधनमिति रुजितेन शरीरेण न धर्मसाधनं भवति । सम्यग् भोजनेन शरीरं द्रढिष्ठं भवति । परन्तु, सुखभाग् भवितुं प्रयतन्ते मानुषाः । अतो भोजनं यथा स्वादिष्ठं भवेत्तदर्थमपि पाकशैल्याम् उतकृष्टताकम् आतनितुम् उद्योगिनो भवन्ति ते । व्यासग्रथिते महाभारते भोजनविषये खाद्यस्वरूपं, भोजनग्रहणकालः, भोजनपरिमाणः, स्वच्छता, स्वास्थ्यविधिश्चेत्यादयो विषया अपि प्रसङ्गीक्रियन्ते । तत्र भोजनसम्बन्धि आलोचनं सम्यक् पर्यालोच्यते चेत्तदा बहूनां विषयाणां स्पष्टतया प्रतीतिर्जायते ।
PDF URL: View Article in PDF
