माध्यमिकविद्यार्थिनां स्मृतौ भावनात्मकदक्षतायां शैक्षिकोपलब्धौ च योगशिक्षायाः योगदानम् The Contribution of Yoga Education to the Memory, Emotional Competence, and Academic Achievement of Secondary-Level Students

Author(s): Mukesh Biswas

Abstract:

अद्यतनशिक्षाव्यवस्थायां विद्यार्थिनां सर्वाङ्गीणविकासः प्रमुखं लक्ष्यं मन्यते। केवलं पाठ्यविषयेषु ज्ञानप्राप्तिः एव शिक्षायाः उद्देश्यं न भवति, अपि तु विद्यार्थिनां बौद्धिकस्य, मानसिकस्य, भावनात्मकस्य, सामाजिकस्य तथा शारीरिकस्य विकासः अपि समानरूपेण अपेक्षितः। माध्यमिकस्तरः विद्यार्थिजीवनस्य अत्यन्तमहत्त्वपूर्णः चरणः अस्ति, यतः अस्मिन् काले तेषां बौद्धिकक्षमता, स्मरणशक्तिः, भावनात्मकपरिपक्वता तथा अध्ययनाभिरुचिः तीव्रतया विकसिताः भवन्ति। अस्यां परिस्थितौ योगशिक्षा विद्यार्थिनां सर्वाङ्गीणविकासाय प्रभावशालिनी साधनरूपेण स्वीक्रियते। योगः भारतीयज्ञानपरम्परायाः अमूल्यः अङ्गः अस्ति। योगाभ्यासेन शरीरस्य स्वास्थ्यं, मनसः स्थैर्यं, एकाग्रता, आत्मनियन्त्रणं तथा भावनात्मकसन्तुलनं वर्धते। नियमितरूपेण आसन-प्राणायाम-ध्यानादीनां अभ्यासः विद्यार्थिनां स्मरणशक्तिं तथा एकाग्रतां सुदृढीकर्तुं शक्नोति। तथैव भावनानां सम्यक् नियमनं, तनावस्य नियन्त्रणं, आत्मविश्वासस्य विकासः तथा सकारात्मकदृष्टिकोणस्य निर्माणं भावनात्मकदक्षतायाः विकासे सहायकं भवति। एते सर्वे घटकाः शैक्षिकोपलब्धेः उन्नतावपि महत्त्वपूर्णां भूमिकां निर्वहन्ति। अस्मिन् शोधलेखे माध्यमिकविद्यार्थिनां स्मृतौ, भावनात्मकदक्षतायां तथा शैक्षिकोपलब्धौ योगशिक्षायाः सम्भावितं योगदानं विवेच्यते। योगशिक्षायाः शैक्षिकमहत्त्वं, मनोवैज्ञानिकप्रभावः, स्मरणशक्तिवर्धने योगदानम्, भावनात्मकदक्षताविकासे भूमिका तथा शैक्षिकोपलब्धिवर्धने प्रभावश्च विश्लेष्यते। अध्ययनस्य आधारः पूर्वप्रकाशितानां सैद्धान्तिकानां तथा अनुभवाधारितानां अध्ययनानां समीक्षा अस्ति। निष्कर्षतः योगशिक्षा माध्यमिकविद्यार्थिनां मानसिकस्वास्थ्यं, भावनात्मकसन्तुलनं, स्मरणक्षमता तथा अध्ययनक्षमता वर्धयितुं महत्त्वपूर्णं साधनं भवितुमर्हति। अतः माध्यमिकशिक्षायां योगशिक्षायाः व्यवस्थितसमावेशः विद्यार्थिनां समग्रविकासाय उपयोगी भवितुमर्हति।

PDF URL: View Article in PDF