Author(s): Soubhagya Ranjan Nanda
Abstract:
भारतीयसंस्कृतेः आधारभूततत्त्वेषु वेदाः प्रमुखस्थानं धारयन्ति। वेदानां संरक्षणार्थं तथा तेषां व्यवहारिकप्रयोगाय षड्वेदाङ्गानि प्रवर्तितानि। तेषु कल्पः वेदाङ्गं विशेषमहत्त्वपूर्णम्। कल्पसूत्रेषु श्रौतसूत्राणि, गृह्यसूत्राणि, धर्मसूत्राणि, शुल्बसूत्राणि च अन्तर्भवन्ति। तेषु गृह्यसूत्राणि गृहस्थजीवनस्य नित्यनैमित्तिककर्माणां विधानं कुर्वन्ति। विशेषतया संस्काराः गृह्यसूत्रेषु व्यवस्थितरूपेण निरूपिताः सन्ति। संस्कारशब्दस्य व्युत्पत्तिः - “सं + कृ + घञ्” इति। संस्कारः इत्यस्य अर्थः शुद्धिकरणम्, परिष्कारः, उन्नयनम् इत्यादि। मानवजीवनं जन्मादारभ्य मृत्युपर्यन्तं यावत् विविधैः संस्कारैः परिष्क्रियते। एते संस्काराः व्यक्तेः शारीरिक-मानसिक-आध्यात्मिकविकासाय कल्पिताः। गृह्यसूत्राणि कल्पसूत्रस्य एकः भागः। एतेषु गृह्यकर्मणां विधानं दृश्यते। यथा— आपस्तम्बगृह्यसूत्रम् पारस्करगृह्यसूत्रम् आश्वलायनगृह्यसूत्रम् शाङ्खायनगृह्यसूत्रम् गोभिलगृह्यसूत्रम् एतेषु सर्वेषु विवाहादिसंस्काराः, श्राद्धकर्म, नामकरणम्, उपनयनम् इत्यादीनां विधानं सुस्पष्टं निर्दिष्टम्।
PDF URL: View Article in PDF
