Author(s): डॉ. विश्वामित्र राय
Abstract:
शिक्षा मानवजीवनस्य आधारस्तम्भः अस्ति। सा केवलं पठितुं लेखितुं च न प्रयोज्यते, अपि तु उत्तमं जीवनं यापनाय मूल्यवान् साधनं भवति। शिक्षा विवेकं, नैतिकतां, सदाचारं च जनयति। सा अज्ञानान्धकारात् ज्ञानप्रकाशं प्रति नयति। शिक्षया मनुष्यः आत्मविश्वासयुक्तः, कर्तव्यनिष्ठः, समाजोपयोगी च भवति। अतः जीवनस्य सर्वेषु क्षेत्रेषु शिक्षायाः परमं महत्वं अस्ति। अतः "सा विद्या या विमुक्तये" इत्युक्तिर्न तु केवलं लोकोक्ति: अपि तु सत्यं जीवनसन्देशः इत्यपि वक्तुं शक्यते। अस्या शिक्षायाः दशा प्राचीनभारते कथमासीत् अद्य कथमस्तीति विचारः अस्मिन् शोधप्रबन्धे क्रियमानोऽस्ति।
PDF URL: View Article in PDF
