पुरूषार्थचतुष्टये धर्मस्य विवेचनम्

Author(s): ऋतुपर्णा गायेन

Abstract:

धर्मस्य प्रथमसिद्धान्तः पुरुषार्थोऽस्ति, यतः सः एव मानवस्वभावं जनयति। अयं शब्दः धर्मार्थे संकीर्णः नास्ति किन्तु व्यापकार्थे प्रयुक्तः। मानवजीवनस्य सन्दर्भे धर्मः मौलिकः नियमोऽस्ति यः सामाजिकानुभवात् विकसितः भवति। यस्योद्देश्यः समग्रसमाजस्य व्यवस्थापनं भवति, धर्मः धारणकरणार्थे प्रयुज्यते। धर्मः जीवनस्य जगतः च अस्तित्वस्य कारणमस्ति। मनुष्यस्य कृते धर्मोदयस्य अर्थः - धनं, यशः, राज्यम् इत्यादि भौतिकप्रगतिः। निःश्रेयस्करः - धर्मः वेदशिक्षणं, तपस्वीजीवनं, सर्वेषु इन्द्रियाणां नियन्त्रणं, मोक्षस्य च आत्मनिरीक्षणम् अर्थात् सर्वबन्धनशोकात् मुक्तिं प्राप्तुं पारलौकिकप्रगतेः आधारः भवति।

PDF URL: View Article in PDF