पाणिनीयदिशा ऋजुप्राज्ञव्याकरणस्य “अदादेरवो लुक्” इति सूत्रविमर्शः

Author(s): सुकान्त कुमार बारिक

Abstract:

इह खलु विचित्रगतिमति संसारे नुः सकलव्यवहारस्य हेतुश्शब्द एव। तद्वारेणैव ना प्रेषयति मनोगतभावानन्यं प्रति व्यवहरति च । तदर्थमेव प्रवृत्तं शास्त्रं शब्दशास्त्रम्।तथा हि “व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा उपशब्देभ्य:” इति व्युत्पादयन्तश्शास्त्रमर्मज्ञा इदमेव शास्त्रं व्याकरणमित्यपरनाम्ना ब्रुवन्तः साधुशब्दानाम् अनुशासनमेव शास्त्रस्यास्य परमं प्रयोजनम्, तस्य फलं तु “एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके च कामयुग्भवति” इति महाभाष्यकृदुक्तिरिति स‌ङि्‌ग‌रन्ते । शास्त्रस्यास्य महन्महत्त्वं वर्णयन् हरिमहाशयोऽप्याह यथा-

PDF URL: View Article in PDF