Author(s): डा. कुमारः बागेवाडिमठः
Abstract:
सूक्ष्मशिक्षणं कश्चन व्यवस्थितः शिक्षक-प्रशिक्षण-प्रविधिः वर्तते यत् अभ्यासस्य, अवलोकनस्य, प्रतिक्रियायाः च माध्यमेन शिक्षकाणां निर्देशात्मकदक्षतासु प्रोन्नतिं सम्पादयितुं विनिर्मितम् अस्ति । १९६० तमे दशके आरम्भे Dwight W. Allen महोदयः Stanford विश्वविद्यालये तस्य कर्मचारिभिः सह मिलत्वा इदं सूक्ष्मशिक्षणं विकासयत् । तच्च कालान्तरे सम्पूर्णे विश्वे शिक्षकशिक्षाकार्यक्रमेषु महत्त्वपूर्णघटकरूपेण विकसितमभवत् । विशेषोऽस्य कक्षायाः स्वरूपं, पाठस्य अवधिं, सामग्रीयाः व्याप्तिञ्च न्यूनीकृत्य शिक्षण-अध्ययन-प्रक्रियां सरलीकरोति । तेन शिक्षकाः विभिन्नेषु कौशलेषु प्राविण्यतां सम्पादयन्ति । यथा पाठस्य उपस्थापनाकौशलम्, प्रश्नकरणकौशलम्, व्याख्यानकौशलम्, पुनर्बलनकौशलम्, प्रेरकवैविध्यम्, कक्षा-प्रबन्धनम्, शिक्षण-साधनानां प्रभावी-उपयोगः, श्यामपट्टकौशलम् इत्यादीनि विविधानि कौशलानि । एतेषु विशिष्ट-शिक्षण-कौशलेषु शिक्षकाः नैपुण्यं एकाग्रतां च प्राप्तुं समर्थाः भवन्ति । संरचित-चक्रीयप्रक्रियायाः माध्यमेन शिक्षकाणां कृते एतानि कौशलानि वास्तविककक्षास्थितिं प्रभावीकरोति । यतः नियन्त्रितवातावरणे अभ्यासस्य अनुभवेन विविधेषु कौशलेषु दक्षतां प्राप्य अध्यापकाः निजकक्षां यदा प्रविशति तदा विविधकौशलानां प्रयोगम् एकस्यामेव कक्षायां सुचारुरूपेण कर्तुं शक्नोति ।
PDF URL: View Article in PDF
