Author(s): डा.नागराजभट्टः
Abstract:
बृहदारण्यकोपनिषदि चतुर्थाध्याये मैत्रेयीब्राह्मणे याज्ञवल्क्यः मैत्रेयीमुपदिदेश “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति। तत्र द्रष्टव्यत्वश्रोतव्यत्वादिरूपेण विज्ञानात्मा उपदिश्यते आहोस्वित् परमात्मा उपदिश्यते इति संशये जाते परेषां विज्ञानात्मा उपदिश्यते इत्यभिमतम्। तन्मतानुसारं “न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति” इत्यादिवाक्येन प्रियसंसूचितं भोक्तारमात्मानमुपक्रम्य “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इत्यादिवाक्येन द्रष्टव्यत्वादिरूपेण विज्ञानात्मैव उपदिश्यते इति। सिद्धान्तस्तु द्रष्टव्यत्वादिरूपेण परमात्मा एव उपदिश्यते इति। “अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेन” इति याज्ञवल्क्यवचनमुपश्रुत्य “येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि” इति अमृतत्वमाशासानायै मैत्रेय्यै आत्मविज्ञानमुपदिश्यति। तच्च अमृतत्वं परमात्मविज्ञानादेव भवति न तु जीवात्मविज्ञानादिति औपनिषदः सिद्धान्तः। तस्मात् द्रष्टव्यत्वश्रोतव्यत्वादिरूपेण परमात्मैव उपदिश्यते इति शोधलेखेऽस्मिन् वाक्यान्वयाधिकरणानुसारं प्रतिपाद्यते ।
PDF URL: View Article in PDF
