नारीसशक्तीकरणे सावित्रीबाईफुले-पण्डितारमाबायोः योगदानस्य तुलनात्मकमध्ययनम् A Comparative Study of the Contributions of Savitribai Phule and Pandita Ramabai to Women’s Empowerment

Author(s): बाबुला प्रधान:

Abstract:

भारतीयसमाजस्य इतिहासपरम्परायां नारीणां स्थानमतीव महत्त्वपूर्णमस्ति। तथापि सामाजिक-कुरीतीनां, निरक्षरतायाः, बालविवाहस्य, वैधव्यसमस्यायाः, जातिभेदभावस्य तथा च लैङ्गिक-वैषम्यस्य कारणात् दीर्घकालं यावत् नारीणां सामाजिकोत्कर्षः रुद्धः अभवत्। एकोनविंशतितमे शतके भारतस्य सामाजिकपरिवर्तनस्य यात्रायाम् अनेकैः समाज-संस्कारकैः महत्त्वपूर्णं योगदानं कृतम्। तेषु सावित्रीबाईफुले तथा च पण्डितारमाबाई इति द्वे समाजसंस्कारिके प्रमुखे स्तः। उभेऽपि नारीशिक्षायाः प्रसारं, नारीणां सामाजिक-प्रतिष्ठां, नारीसशक्तीकरणम् तथा चाधिकारजागरूकतां परमावश्यकीं मन्येते स्म। सावित्रीबाई-फुले बालिकानां शिक्षायाः प्रसारे, सामाजिकसमतायाः समर्थने तथा च वञ्चितवर्गाणाम् उन्नतौ महत्त्वपूर्णं योगदानं कृतवती। अपरञ्च, पण्डितारमाबाई तु नारीशिक्षायाः, विशेषतः विधवानां तथा च सामाजिकदृष्ट्या तिरस्कृतानां नारीणां शिक्षायाः, पुनर्वासस्य तथा च नारीसशक्तीकरणस्य दिश्युल्लेखनीयं कार्यमकरोत्। अस्मिन्लेखे उभयोः योगदानस्य शिक्षाक्षेत्रे, समाजसंस्कारक्षेत्रे, नारीअधिकारक्षेत्रे तथा चात्मनिर्भरतादृष्ट्या तुलनात्मकमध्येयनं क्रियते। तयोः कार्ययोः साम्यं वैषम्यं च विमृश्य आधुनिकसमाजे तयोः अवदानस्य प्रासङ्गिकतापि प्रतिपाद्यते।

PDF URL: View Article in PDF